Friday, April 20, 2018

आस्तां तावद्देयम् प्रसूति समये दुर्वार शूल व्यथा
नैरुच्यं तनु शोषणं मलमयी शय्या च सांवसरी
एकस्याऽपि न गर्भभारभरणक्लेशस्य यस्य क्षमो
दातुं निष्कृतिमुन्नतोपि तनयः तस्यै जनन्यै नमः॥१॥
गुरुकुलमुपशृत्य स्वप्नकाले तु दृष्ट्वा
यति समुचित वेषं प्रारुदो मां त्वमुच्चैः
गुरुकुलमथ सर्वा प्रारुदाते समक्षं
सपदि चरणयोस्ते मातुरस्तु प्रणामाः॥२॥
अंबेति तातेति शिवेति तस्मिन्
प्रसूतिकाले यदवोच उचैः
कृष्णेति गोविन्द हरेमुकुन्देति
अहो जनन्यै रचितोयमञ्जलिः।३॥
न दत्तं मातस्ते मरणसमये तोयमपि या
स्वादा या नो देया मनणदिवसे श्राद्ध विधिना
न जप्तो मातस्ते मरण समये तारकमनु
अकाले संप्राप्ते मयि कुरु दयां मातरतुलां॥४॥
मुक्तामणिस्त्वं  नयनं ममेति
राजेति जीवेति चिरं स्तुता त्वं
इत्युक्तवत्या तव वाचि मात
ददाम्यहम् तण्डुलमेष शुल्कं॥५॥

No comments:

Post a Comment