Tuesday, April 30, 2024

काव्यादिकस्यैव विनार्थबोधं सा व्यर्थता भूरिजपेन नित्यम्। जपे मनूनां न तथाऽत्र विद्वन् पूर्वर्षयो व्यासमुखा: प्रमाणम् ॥ अतीव दुर्ग्राह्यमहो षडंग - विदां नराणामपि मन्त्रतत्त्वम् । गुरूक्तरीत्यैव हि तज्जपेन सदेष्टसिद्धिः किल हे मनीषिन् । न भारभूता मनुसन्ततिस्सा शुभार्थदा तत्समुपासकानाम्। तदर्थचिन्तापि वरा हि तेषां स्वधीविलासाय हि सेतरेषां

No comments:

Post a Comment