Monday, November 12, 2018

 श्रीस्कन्दषट्कम् ॥

ॐ श्रीगणेशाय नमः ।

षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम् ।
देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम् ॥ १॥

तारकासुरहन्तारं मयूरासनसंस्थितम् ।
शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम् ॥ २॥

विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम् ।
कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम् ॥ ३॥

कुमारं मुनिशार्दूलमानसानन्दगोचरम् ।
वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम् ॥ ४॥

प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम् ॥ ५॥

विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम् ।
सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम् ॥ ६॥

स्कन्दषट्कं स्तोत्रमिदं यः पठेत् शृणुयान्नरः ।
वाञ्छितान् लभते सद्यश्चान्ते स्कन्दपुरं व्रजेत् ॥ ७॥

इति श्रीस्कन्दषट्कं सम्पूर्णम् ॥

No comments: