Saturday, November 24, 2018

-: संस्कृतवाणी :---!!!
======================
www.vaidiksanskrit.com
सरसा सरसा संस्कृतवाणी
जयति मङ्गला संस्कृतवाणी ।
वेदहिमाद्रेश्चिरं वहन्ती
विमला गङ्गा कल्याणी ।।1।।
अङ्गानां धाराभिरुदारा
उपनिषदामपि निहितविचारा ।
दर्शन-तन्त्र-पुराण-स्मृतितति
काव्य-कथा-नाटक-परिवारा ।।
सूक्ति-सुधा-पानं भुवि कुर्वन्
भवति सुखी सकलः प्राणी ।।2।।
अतुलो यस्याः शब्दागारः
शास्त्राणां विपुलो विस्तारः ।
नीचैरुच्चैरभितः परितः
शुद्धा, क्वापि न तत्र विकारः ।।
चिन्तन-मनन-निदिध्यासनतो
विज्ञानानां निर्माणी ।।33।।
ज्ञानं मानवतायाः वितरति,
विश्वप्रेम दिशन्ती विहरति ।
समता-ममता-समादराणां
भावः प्रतिजन-हृदयं प्रसरति ।।
वन्दे तां संयोज्य भक्तिनो
विनतशिराः स्वीयौ पाणी ।।4।।
जयति मङ्गला संस्कृतवाणी ।

No comments: