Saturday, November 17, 2018

 संस्कृत कथा 

एकः काकः अस्ति। सः बहु तृषितः। सः जलार्थं भ्रमति। तदा ग्रीष्मकालः। कुत्रापि जलं नास्ति। काकः कष्टेन बहुदूरं गच्छति। तत्र सः एकं घटं पश्यति।
काकस्य अतीव सन्तोषः भवति। किन्तु घटे स्वलपम् एव जलम् अस्ति।
जलं कथं पिबामि।
इति काकः चिन्तयति।
सः एकम् उपायं करोति। शिलाखण्जान् आनयति। घटे पूरयति। जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति।
(इस कहानी का संस्कृत रूप संस्कृतभारती के द्वारा प्रकाशित पत्रालयद्वारा संस्कृतम् पत्रिका के द्वितीय भाग में से लिया गया है)

No comments: