Wednesday, November 08, 2017

Ten children are required

Rig Veda Mandala 10 Hymn 85

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता दयौः | 
रतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि शरितः || 
सोमेनादित्या बलिनः सोमेन पर्थिवी मही | 
अथोनक्षत्राणामेषामुपस्थे सोम आहितः || 
सोमं मन्यते पपिवन यत सम्पिंषन्त्योषधिम | 
सोमं यम्ब्रह्माणो विदुर्न तस्याश्नाति कश्चन || 
आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः | 
गरव्णामिच्छ्र्ण्वन तिष्ठसि न ते अश्नाति पार्थिवः || 
यत तवा देव परपिबन्ति तत आ पयायसे पुनः | 
वायुःसोमस्य रक्षिता समानां मास आक्र्तिः || 
रैभ्यासीदनुदेयी नाराशंसि नयोचनी | 
सूर्यायाभद्रमिद वासो गाथयैति परिष्क्र्तम || 
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम | 
दयौर्भूमिःकोश आसीद यदयात सूर्या पतिम || 
सतोमा आसन परतिधयः कुरिरं छन्द ओपशः | 
सूर्यायाश्विना वराग्निरासीत पुरोगवः || 
सोमो वधूयुरभवदश्विनास्तामुभा वरा | 
सूर्यांयत पत्ये शंसन्तीं मनसा सविताददात || 
मनो अस्या अन आसीद दयौरासीदुत छदिः | 
शुक्रावनड्वाहवास्तां यदयात सूर्या बर्हम || 
रक्सामाभ्यामभिहितौ गावौ ते सामनावितः | 
शरोत्रं तेचक्रे आस्तां दिवि पन्थाश्चराचारः || 
शुची ते चक्रे यात्या वयानो अक्ष आहतः | 
अनोमनस्मयं सूर्यारोहत परयति पतिम || 
सूर्याया वहतुः परागात सविता यमवास्र्जत | 
अघासुहन्यन्ते गावो.अर्जुन्योः पर्युह्यते || 
यदश्विना पर्छमानावयातं तरिचक्रेण वहतुंसूर्यायाः | 
विश्वे देवा अनु तद वामजानन पुत्रःपितरावव्र्णीत पूषा || 
यदयातं शुभस पती वरेयं सूर्यामुप | 
कवैकंचक्रं वामासीत कव देष्ट्राय तस्थथुः || 
दवे ते चक्रे सूर्ये बरह्माण रतुथ विदुः | 
अथैकंचक्रं यद गुहा तदद्धातय इद विदुः || 
सूर्यायै देवेभ्यो मित्राय वरुणाय च | 
ये भूतस्यप्रचेतस इदं तेभ्यो.अकरं नमः || 
पूर्वापरं चरतो माययैतौ शिशू करिळन्तौ परि यतोध्वरम | 
विश्वान्यन्यो भुवनाभिचष्ट रतुन्रन्योविदधज्जायते पुनः || 
नवो-नवो भवति जायमानो.अह्नां केतुरुषसामेत्यग्रम | 
भागं देवेभ्यो वि दधात्यायन पर चन्द्रमास्तिरतेदीर्घमयुः || 
सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुव्र्तंसुचक्रम | 
आ रोह सूर्ये अम्र्तस्य लोकं सयोनं पत्ये वहतुंक्र्णुष्व || 
उदीर्ष्वातः पतिवती हयेषा विश्वावसुं नमसागीर्भिरीळे | 
अन्यामिछ पित्र्षदं वयक्तां स ते भागोजनुषा तस्य विद्धि || 
उदीर्ष्वातो विश्वावसो नमसेळा महे तवा | 
अन्यामिछप्रफर्व्यं सं जायां पत्या सर्ज || 
अन्र्क्षरा रजवः सन्तु पन्था येभिः सखायो यन्ति नोवरेयम | 
समर्यमा सं भगो नो निनीयात सं जस्पत्यंसुयममस्तु देवाः || 
पर तवा मुञ्चामि वरुणस्य पाशाद येन तवाबध्नात सवितासुशेवः | 
रतस्य योनौ सुक्र्तस्य लोके.अरिष्टां तवा सहपत्या दधामि || 
परेतो मुञ्चामि नामुतः सुबद्धाममुतस करम | 
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति || 
पूषा तवेतो नयतु हस्तग्र्ह्याश्विना तवा पर वहतांरथेन | 
गर्हान गछ गर्हपत्नी यथासो वशिनी तवंविदथमा वदासि || 
इह परियं परजया ते सं रध्यतामस्मिन गर्हे गार्हपत्यायजाग्र्हि | 
एना पत्या तन्वं सं सर्जस्वाधा जिव्री विदथमा वदाथः || 
नीललोहितं भवति कर्त्यासक्तिर्व्यज्यते | 
एधन्ते अस्याज्ञातयः पतिर्बन्धेषु बध्यते || 
परा देहि शामुल्यं बरह्मभ्यो वि भजा वसु | 
कर्त्यैषापद्वती भूत्व्या जाया विशते पतिम || 
अश्रीरा तनूर्भवति रुशती पापयामुया | 
पतिर्यद्वध्वो वाससा सवमङगमभिधित्सते || 
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु | 
पुनस्तान यज्ञिया देवा नयन्तु यत आगताः || 
मा विदन परिपन्थिनो य आसीदन्ति दम्पती | 
सुगेभिर्दुर्गमतीतामप दरान्त्वरातयः || 
सुमङगलीरियं वधूरिमां समेत पश्यत | 
सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन || 
तर्ष्टमेतत कटुकमेतदपाष्ठवद विषवन नैतदत्तवे | 
सूर्यां यो बरह्मा विद्यात स इद वाधूयमर्हति || 
आशसनं विशसनमथो अधिविकर्तनम | 
सूर्यायः पश्यरूपाणि तानि बरह्मा तु शुन्धति || 
गर्भ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः | 
भगो अर्यमा सविता पुरन्धिर्मह्यं तवादुर्गार्हपत्याय देवाः || 
तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्यावपन्ति | 
या न ऊरू उशती विश्रयाते यस्यामुशन्तःप्रहराम शेपम || 
तुभ्यमग्रे पर्यवहन सूर्यां वहतुना सह | 
पुनःपतिभ्यो जायां दा अग्ने परजया सह || 
पुनः पत्नीमग्निरदादायुषा सह वर्चसा | 
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम || 
सोमः परथमो विविदे गन्धर्वो विविद उत्तरः | 
तर्तीयोग्निष टे पतिस्तुरीयस्ते मनुष्यजाः || 
सोमो ददद गन्धर्वाय गन्धर्वो दददग्नये | 
रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम || 
इहैव सतं मा वि यौष्टं विश्वमायुर्व्यश्नुतम | 
कॄळन्तौ पुत्रैर्नप्त्र्भिर्मोदमानौ सवे गर्हे || 
आ नः परजां हनयतु परजापतिराजरसाय समनक्त्वर्यमा | 
अदुर्मङगलीः पतिलोकमा विश शं नो भवद्विपदे शं चतुष्पदे || 
अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाःसुवर्चाः | 
वीरसूर्देवकामा सयोना शं नो भव दविपदेशं चतुष्पदे || 
इमां तवमिन्द्र मीढ्वः सुपुत्रां सुभगां कर्णु | 
दशास्यां पुत्राना धेहि पतिमेकादशं कर्धि || 
सम्राज्ञी शवशुरे भव सम्राज्ञी शवश्र्वां भव | 
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देव्र्षु || 
समञ्जन्तु विश्वे देवाः समापो हर्दयानि नौ | 
सम्मातरिश्वा सं धाता समु देष्ट्री दधातु नौ || 

No comments: