अग्निम् ईळे पुरोहितं
यज्ञस्य देवं ऋत्विजं ।
होतारं रत्नधातमम् ।।
यज्ञस्य देवं ऋत्विजं ।
होतारं रत्नधातमम् ।।
एष ऋग्वेदस्य प्रथमे सूक्ते प्रथमो मन्त्रः । अस्य सूक्तस्य द्रष्टा ऋषिर् मधुच्छन्दाः वैश्वामित्रः. गायत्री छन्दः. अग्निर्देवता इत्यनुक्रमणी ।
ईळन आत्मार्थे स्तवने. बह्वृचश् छन्दसि एवं विधं डळयोरभेद इति श्रुतः। यो हितः पुरः सः पुरोहितः। सः पुरो नयति च जनान् देवानपि। यथा भौतिके यज्ञे अग्निः पुरोहितो भवति यजमानस्य तथा आत्मनि प्रतिष्ठित अग्निः पुरोहितो भवति नः । अस्मद् पुरोगमनम् त्वग्निना खलु। स नः पर्षद् अति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निर् इति श्रुतः। अग्निर् वै यज्ञस्य देवः पुरोहितः। देवो दिव्यत्वे। यज्ञे सोऽग्निर् एव दीव्यते। स एव देवः। विश्वेदेवा अग्निना दृश्यन्ते। ऋतुना यजतीति ऋत्विक्। सर्वे यज्ञा अग्निना वर्धन्ते। अस्मभ्यं देवान् अग्निर् आ वहति। अस्मभ्यं स यजति, स एव ऋत्विग् पुरोहितश् च। यथा होता यजमानार्थं ह्वयति तथैव अग्निर् अस्मभ्यं ह्वयति देवान्। रत्नो रतिस्वरूपः। तोष प्रदः। वरिष्ठो रत्नस्य धाता रत्नधातमः। अग्निना दत्तो रत्न आत्मतुष्तिं प्रददाति नः खलु।
kiron krishnan
No comments:
Post a Comment