Tuesday, April 28, 2020

*भज गोविन्दं*


*भज गोविन्दं भज गोविन्दं*
*गोविन्दं भज मूढमते ।*
*सम्प्राप्ते सन्निहिते काले*
*नहि नहि रक्षति डुकृङ्करणे ॥ १॥*



*मूढ जहीहि धनागमतृष्णां*
*कुरु सद्बुद्धिं मनसि वितृष्णाम् ।*
*यल्लभसे निजकर्मोपात्तं*
*वित्तं तेन विनोदय चित्तम् ॥ २॥*



*नारीस्तनभरनाभीदेशं*
*दृष्ट्वा मा गा मोहावेशम् ।*
*एतन्मांसवसादिविकारं*
*मनसि विचिन्तय वारं वारम् ॥ ३॥*


*नलिनीदलगतजलमतितरलं*
*तद्वज्जीवितमतिशयचपलम्*
*विद्धि व्याध्यभिमानग्रस्तं*
*लोकं शोकहतं च समस्तम् ॥ ४॥*


*यावद्वित्तोपार्जनसक्त -*
*स्तावन्निजपरिवारो रक्तः ।*
*पश्चाज्जीवति जर्जरदेहे*
*वार्तां कोऽपि न पृच्छति गेहे ॥ ५॥*



*यावत्पवनो निवसति देहे*
*तावत्पृच्छति कुशलं गेहे ।*
*गतवति वायौ देहापाये*
*भार्या बिभ्यति तस्मिन्काये ॥ ६॥*



*बालस्तावत्क्रीडासक्तः*
 *तरुणस्तावत्तरुणीसक्तः ।*
*वृद्धस्तावच्चिन्तासक्तः*
*परमे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥*



*का ते कान्ता कस्ते पुत्रः*
*संसारोऽयमतीव विचित्रः ।*
*कस्य त्वं कः कुत आयात-*
*स्तत्त्वं चिन्तय तदिह भ्रातः ॥ ८॥*



*सत्सङ्गत्वे निस्सङ्गत्वं*
*निस्सङ्गत्वे निर्मोहत्वम् ।*
*निर्मोहत्वे निश्चलतत्त्वं*
*निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९॥*



*वयसि गते कः कामविकारः*
*शुष्के नीरे कः कासारः ।*
*क्षीणे वित्ते कः परिवारः*
*ज्ञाते तत्त्वे कः संसारः ॥ १०॥*




*मा कुरु धनजनयौवनगर्वं*
*हरति निमेषात्कालः सर्वम् l*
*मायामयमिदमखिलं हित्वा  बुध्वा*
*ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११॥*




*दिनयामिन्यौ सायं प्रातः*
*शिशिरवसन्तौ पुनरायातः ।*
*कालः क्रीडति गच्छत्यायु-*
*स्तदपि न मुञ्चत्याशावायुः ॥ १२॥*



*का ते कान्ता धनगतचिन्ता*
*वातुल किं तव नास्ति नियन्ता ।*
*त्रिजगति सज्जनसङ्गतिरेका*
*भवति भवार्णवतरणे नौका ॥ १३॥*

*द्वादशमञ्जरिकाभिरशेषः*
*कथितो वैयाकरणस्यैषः ।*
*उपदेशोऽभूद्विद्यानिपुणैः*
*श्रीमच्छङ्करभगवच्छरणैः ॥ १३अ ॥*

*(This bouquet of twelve verses (2-13) was* *imparted to a grammarian*
*by the all-knowing* *Shankara, adored as the* *bhagavadpada.)*

*जटिलो मुण्डी लुञ्छितकेशः*
*काषायाम्बरबहुकृतवेषः ।*
*पश्यन्नपि च न पश्यति मूढो*
*ह्युदरनिमित्तं बहुकृतवेषः ॥ १४॥*



*अङ्गं गलितं पलितं मुण्डं*
*दशनविहीनं जातं तुण्डम् ।*
*वृद्धो याति गृहीत्वा दण्डं*
*तदपि न मुञ्चत्याशापिण्डम् ॥१५॥*



*अग्रे वह्निः पृष्ठे भानुः*
*रात्रौ चुबुकसमर्पितजानुः ।*
*करतलभिक्षस्तरुतलवास-*
*स्तदपि न मुञ्चत्याशापाशः ॥ १६॥*



 *कुरुते गङ्गासागरगमनं*
*व्रतपरिपालनमथवा दानम् ।*
*ज्ञानविहीनः सर्वमतेन*
*मुक्तिं न भजति जन्मशतेन ॥ १७॥*

*सुरमंदिरतरुमूलनिवासः*
*शय्या भूतलमजिनं वासः ।*
*सर्वपरिग्रहभोगत्यागः*
*कस्य सुखं न करोति विरागः ॥ १८॥*


*योगरतो वा भोगरतो वा*
*सङ्गरतो वा सङ्गविहीनः ।*
*यस्य ब्रह्मणि रमते चित्तं*
*नन्दति नन्दति नन्दत्येव ॥ १९॥*


*भगवद्गीता किञ्चिदधीता*
*गङ्गाजललवकणिका पीता ।*
*सकृदपि येन मुरारिसमर्चा*
*क्रियते तस्य यमेन न चर्चा ॥ २०॥*


*पुनरपि जननं पुनरपि मरणं*
*पुनरपि जननीजठरे शयनम् l*
*इह संसारे बहुदुस्तारे*
*कृपयाऽपारे पाहि मुरारे ॥ २१॥*


*रथ्याचर्पटविरचितकन्थः*
*पुण्यापुण्यविवर्जितपन्थः ।*
*योगी योगनियोजितचित्तो*
*रमते बालोन्मत्तवदेव ॥ २२॥*

*कस्त्वं कोऽहं कुत आयातः*
*का मे जननी को मे तातः ।*
*इति परिभावय सर्वमसारम्*
*विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३॥*

*त्वयि मयि चान्यत्रैको विष्णु-*
*र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।*
*भव समचित्तः सर्वत्र त्वं*
*वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥२४॥*
.

*शत्रौ मित्रे पुत्रे बन्धौ*
*मा कुरु यत्नं विग्रहसन्धौ ।*
*सर्वस्मिन्नपि पश्यात्मानं*
*सर्वत्रोत्सृज भेदाज्ञानम् २५॥*

*कामं क्रोधं लोभं मोहं*
*त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।पश्यति सोऽहम्*
*आत्मज्ञानविहीना मूढा -*
*स्ते पच्यन्ते नरकनिगूढाः ॥ २६॥*
.

*गेयं गीतानामसहस्रं*
*ध्येयं श्रीपतिरूपमजस्रम् ।श्रीपतिरूपमजस्रम्*
*नेयं सज्जनसङ्गे चित्तं*
*देयं दीनजनाय च वित्तम् ॥ २७॥*

*सुखतः क्रियते रामाभोगः*
*पश्चाद्धन्त शरीरे रोगः ।*
*यद्यपि लोके मरणं शरणं*
*तदपि न मुञ्चति पापाचरणम् ॥ २८॥*


*अर्थमनर्थं भावय नित्यं*
*नास्तिततः सुखलेशः सत्यम् ।पुत्रादपि धनभाजां भीतिः*
*सर्वत्रैषा विहिता रीतिः ॥ २९॥*



*प्राणायामं प्रत्याहारं*
*नित्यानित्य विवेकविचारम् ।*
*जाप्यसमेतसमाधिविधानं*
*कुर्ववधानं महदवधानम् ॥ ३०॥*



*गुरुचरणाम्बुजनिर्भरभक्तः*
*संसारादचिराद्भव मुक्तः ।*
 *सेन्द्रियमानसनियमादेवं*
*द्रक्ष्यसि निजहृदयस्थं देवम् ॥३१॥*




(The following two are not found in standard text of Bhajagovindam.
)

*मूढः कश्चन वैयाकरणो*
*डुःकृङ्करणाध्ययनधुरीणः ।*श्रीमच्छङ्करभगवच्छिष्यै-*
*र्बोधित आसीच्छोधितकरणः ॥ ३२॥*

 *भज गोविन्दं भज गोविन्दं*
*गोविन्दं भज मूढमते ।*
*नामस्मरणादन्यमुपायं*
*नहि पश्यामो भवाब्धितरणे ॥ ३३॥*

No comments: