Thursday, February 21, 2019

बालबोधसङ्ग्रहः 

                विषयसूचिका ।
          १ आध्यात्मविद्याप्रबोधप्रकारः ।
          २ ज्ञानस्वरूपम्
          ३ साधनचतुष्टयम्
          ४ आत्मैक्यज्ञानविचारणा
          ५ पञ्चविंशति तत्त्वानि
          ६ अन्तःकरणचतुष्टयम्
          ७ अनिर्वचनीयो आत्मा
          ८ देशिकस्य करुणया ज्ञानप्राप्तिः
श्रीमच्छङ्करभगवत्पादचरणारविन्दाभ्यान्नमोनमः ॥

आध्यात्मविद्याप्रबोधप्रकारं व्याख्यास्यामः ।
आधिभौतिकाधिदैविकाध्यात्मिकादि तापत्रयाग्निसन्तप्तः
सकलसाधनोपेतः संसाराद्विरम्य शिष्यः सद्गुरुं शरणं
गत्वा साष्टाङ्गं प्रणिपत्य विज्ञप्तिं करोति ।
         भो  स्वामिन् ! मम संसारनिवृत्तिं कुरु ।
गुरुरुवाच -
          अरे शिष्य तव संसारनिवृत्तिः ज्ञानेन भवितव्या ।
          ज्ञानं च श्रवणमनननिदिध्यासनैः ब्रह्मसाक्षात्कारो भवति ।
शिष्य उवाच -
         भो स्वामिन् श्रवणं नाम किम्? मननं नाम किम्? निदिध्यासनं नाम किम्?
गुरुरुवाच -
        भो वत्स !श्रवणम् नाम वेदान्तवाक्यानामुपक्रमोपसंहारतात्पर्यलिङ्गानां
        साधनचतुष्टययुक्तः सन् श्राव्यम् ।
        मननं नाम श्रुतार्थस्य उपपत्त्यनुपपत्तिभ्यां युक्तिभिरालोचनं
        मननम् ।  निदिध्यासनं नाम निश्चितार्थस्य तदेकनिष्ठत्वेन
        संशयविपर्यय त्यागेन अवस्थानं निदिध्यासनम् । स एव
        फलितसाक्षात्कारः । श्रुतिवाक्यं प्रमाणम् ।  भिद्यते
        हृदयग्रन्थिः छिद्यते सर्व संशयाः ।
        क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥  [मुण्डक २:८]
शिष्यः -
        भो स्वामिन् ! साधनचतुष्टयं नाम किम् ?
गुरुरुवाच -
        नित्यानित्यवस्तुविवेकः ।
        इहामुत्रार्थफलभोगविरागः ।
        शमादिषट्कम् ।
        मुमुक्षुता च ।
        नित्यमात्मस्वरूपं हि दृश्यन्तद्विपरीतकम् ।
        एवं यो निश्चयः सम्यक् विवेकोऽस्य नरस्य वै ॥

        जगत्सर्वमनित्यम् । ब्रह्मैव नित्यम् । इहामुत्रफलभोग विरागोनाम
        ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
        तथैव काकविष्ठायाः वैराग्यं तद्धि निर्मलम् ॥

        इहपरसुखविषयेषु वैराग्यं विरागः ।
        शमादिषट्कं नाम शमोदमउपरतिस्तितिक्षा श्रद्धासमाधानम् ।
   शमो नाम - सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
   दमोनाम - निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ।
   उपरतिर्नाम - विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ।
   तितिक्षा नाम - सहनं सर्वदुःखानां तितिक्षा शुभामता ।
   श्रद्धा नाम - निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ।
   समाधानं नाम - चित्तैकाग्र्यं तु संलक्ष्ये समाधानमिति श्रुतम् ।
                                               एतत् शमादिषट्कम्।
   मुमुक्षुता - संसारबन्धनान्मुक्तिः कथं स्यान्मे कदा विधे ।
        इति यासु दृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥

        एवं साधनचतुष्टयसम्पन्नस्यैव ब्रह्मात्मैक्यज्ञाने अधिकारः ।
             आत्मैकविज्ञानं विचारेण विना न जायते । विचारः कार्यः।
शिष्य उवाच -
            विचारोनाम ?
गुरुरुवाच -
           अहं कः ? इदं सर्वं कथं जातम् ? कुत्र वा लयं गच्छति ?
           सदा सद्भिः विचारः कार्यः ।
शिष्य उवाच -
           भो स्वामिन् ! अहं तु विचारं न जानामि सन्त कुत्र वा सन्ति ?
           को वेद ? त्वमेव मां करुणाकटाक्षपोतेन संसारवारिधेः
           पारं दर्शय त्वमेव मे गतिः ।
श्रीगुरुरुवाच -
           भो वत्स ! मय्येव तव दृढा भक्तिश्चेत् शृणु ।
           त्वं तु देहो न भवसि । अतः जडत्वात् दृश्यत्वात् दृश्यादन्यो
           द्रष्टेति न्यायात् ।  अमङ्गलत्वाच्च । नित्यत्वाच्च ।
           सविकारत्वाच्च जात एव देहस्त्वं न भवसि ।
           त्वं तु चैतन्यमात्रम् ।
शिष्य उवाच -
           भो स्वामिन् ! अहं देहो न भवामि चेत् देहस्य सुखदुःखं मां
           बाधते ।  अत एव देह एवाहम् ।
गुरुरुवाच -
          देहो जडः ।
शिष्य उवाच -
          कथं जडः देहस्तावत् बाल्यमारभ्य नित्यं वर्धते जडस्य
          वृद्धिर्न संभवति ।  एवमेव सर्वम् ।
गुरुरुवाच  -
          भो शिष्य ! देहतादात्म्येन तव सुखदुःखं प्रतिभाति ।
          यथा धनादिकन्नष्टं चेत् दुःख भवति ।
          तेनैव द्रव्यादिकं स्वयं भवति वा
          सुखदुःखयोः कारणाभावेऽपीति ।
          यथा लाभालाभे तादात्म्येन सुखदुःखे भासतः ।
          तथैव देहतादात्म्येन सुखदुःखे प्रतिभासतः ॥

          यथा द्रव्यादिभ्यः स्वयं भिन्नः तथैव देहात् स्वयं भिन्नः ।
          जड त्वं च  शृणु - देहो वर्धते इति कृत्वा देहो जडो न
          भवतीति यद्वदसि तदसत् ।  जडस्यापि वृद्धिदर्शनात् ।
          यथा वेदिका मृद्रूपा जडापि मृन्निक्षेपेण कुड्यादिरूपेण
          वर्धते । किं तन्मात्रेण चैतन्यं भवति वा ।
          तथैवान्नमयशरीरस्य पुनःपुनः अन्नं नित्यं निक्षेपेण
          देहो वर्धते । अत एव जडः ।  अमङ्गळत्वाच्च  ।
          शृणु - जन्मकालपरामर्शे अमङ्गळं सिद्धमेव ।
          तव देहः दृश्यत्वं कथमिति चेत् मम शरीरे
          श्यामगौरवत्वादिना प्रतीयमाने कृश स्थूलत्वादिभिश्च
          सिद्धमेव ।  त्वं तु द्रष्टा । अनित्यत्वं शृणु ।
          बाल कौमाराद्यवस्थायुक्तत्वात् सविकारित्वम् ।
          त्वं तु देहाद्यविकारः । नित्यश्च । योऽहं बाल्ये क्रीडासक्तः
          यौवने विषयासक्तः वार्धक्ये चिन्तायुक्तः तावत्तावत्
          सोऽहमित्यनुभवात् ताभिर्व्यवस्थाभिर्युक्तस्य नित्यत्वम् ।
          तस्माद्देहो न भवसि । त्वं चिन्मात्रोऽसि साक्षी ।
शिष्य उवाच -
          भो स्वामिन्  ! तव प्रसादलेशात् देहो न भवामीति मम ज्ञानं
          जातम् ।  तावता मम को लाभः ?
गुरुरुवाच -
          यदा त्वं पञ्चीकृतपञ्चमहाभूत समभवस्थूलशरीरं न
          भवसि तदा नामरूपजातिवर्णाश्रमादयस्तव न सन्ति ।
          एतत् सर्वं स्थूल शरीरस्यैव ।
शिष्य उवाच -
          भो स्वामिन् ! त्वत् प्रसादात् सत्यं त्वदाज्ञया अहं स्थूलदेहो
          न भवामि ।  तत्सम्बन्धाः वर्णाश्रमदयः स्त्रीपुंनपुंसकादयः
          श्यामगौरवत्वादि नामरूपादयः मम न सन्ति ।
          अतः परमिन्द्रियाण्यहम् । इन्द्रियेषु सत्सु पश्यामि शृणोमि
          स्पृशामि इत्याद्यनुभवाच्च इन्द्रियाण्यहमेव ।
गुरुरुवाच -
          भो वत्स ! इन्द्रियाण्यपि जडानि त्वं न भवसि
          पञ्चभूतकार्यत्वात् ।
शिष्यः -
          भो स्वामिन् ! इन्द्रियाणि जडानि कथं भूतकार्याणि कथम् ?
गुरुरुवाच -
          यो वत्स इन्द्रियाणि आत्मानं जानन्ति परमपि न जानन्ति यथा
          प्रदीपवत् ।  भो श्रोत्र इदानीं त्वं अत्र तिष्ठसीत्युक्ते भो
          स्वामिन् अत्र स्थास्यामीति वक्तुमसमर्थं एवं सर्वाणि करणानि
          अत जडानि । भूतकार्यं कथमिति शृणु ।
          श्रोत्रेन्द्रियमाकाशकार्यम् । आकाशाध्यात्मिक गुणशब्दग्रहणे
          साधनम् ।  त्वगिन्द्रियं वायुकार्यम् ।
          वाय्वाध्यात्मिकगुणस्पर्शग्रहणे साधनम् ।
          चक्षुस्तेजः कार्यम् । तेज आध्यात्मिकगुणरूपग्रहणे साधनम् ।
          रसनेन्द्रियमपां कार्यम् ।  जलाध्यात्मिकगुणरसग्रहणे साधनम् ।
          एतानि ज्ञानेन्द्रियाणि । पञ्चभूतसत्त्वगुणादुत्पन्नानि ।
          अथ कर्मेन्द्रियाणि शृणु ।
   कर्मेन्द्रियाणि -
          वाक् आकाशकार्यम् । आकाशाध्यात्मिकगुणशब्दो वदति ।
          पाणीन्द्रियं वायुकार्यम् । वाय्वाध्यात्मिकगुणेन गृह्णाति ।
          पादेन्द्रियं तेजः कार्यम् । तेज आध्यात्मिककार्यं गमनादिकं
          करोति । गुह्येन्द्रियमपां कार्यम् । जलाध्यात्मिककार्यम् ।
          मूत्ररेतोत्सर्गादिकं करोति ।  गुदेन्द्रियं पृथिवीकार्यम् ।
          पृथिव्याध्यात्मिकगुणम् । पुरीषादिकं करोति ।
          एवं कर्मेन्द्रियाणि पञ्चभूतरजोगुणेभ्यः उत्पन्नानि ।
   पञ्चभूततमोगुणात् विषया उत्पन्नाः ।
          शब्दस्पर्शरूपरसगन्धाः वचनादानगमन विसर्गानन्दाः ।
          एतानि सर्वाणीन्द्रियाणि पञ्चभूताध्यात्मिक कार्याणि जडानि ।
   स्वस्वदेवतानुग्रहेण स्वस्वविषयान् प्रति वर्तन्ते ।
शिष्यः -
          कस्येन्द्रियस्य किं दैवतम् ?
गुरुरुवाच -
         श्रोत्रेन्द्रियस्य दिगधिदैवतम् ।
         त्वगिन्द्रियस्य वायुरधिदैवतम् ।
         चक्षुरिन्द्रियस्य सूर्योऽधिदैवतम् ।
         रसनेन्द्रियस्य वरुणोऽधिदैवतम् ।
         घ्राणेन्द्रियस्याश्विनीदेवतावधिदैवतम् ।
         वागिन्द्रियस्याग्निरधिदैवतम् ।
         पाणीन्द्रियस्य इन्द्रोऽधिदैवतम् ।
         पादेन्द्रियस्य विष्णुरधिदैवतम् ।
         पाय्विन्द्रियस्य मृत्युरधिदैवतम् ।
         गुह्येन्द्रियस्य प्रजापतिरधिदैवतम् ।
   इन्द्रियाणामधिभूतं च शृणु -
         श्रोत्रेन्द्रियस्य श्रोतव्यमधिभूतम् ।
         नेत्रेन्द्रियस्य द्रष्टव्यमधिभूतम् ।
         त्वगिन्द्रियस्य स्पर्शनोऽधिभूतम् ।
         रसनेन्द्रियस्य रसग्रहणमधिभूतम् ।
         घ्राणेन्द्रियस्य गन्धग्रहणमधिभूतम् ।
         वागिन्द्रियस्य वक्तव्यमधिभूतम् ।
         पाणिन्द्रियस्य दातव्यमधिभूतम् ।
         पादेन्द्रियस्य गमनमधिभूतम् ।
         पाय्विन्द्रियस्य विसर्जनमधिभूतम् ।
         उपस्थेन्द्रियस्य उत्सर्जनमधिभूतम् ।
    सर्वाणि करणानि स्वस्वदेवतानुग्रहणैव स्वस्वविषयान् जानन्ति ।
         अत एव जडानि तानि त्वं न भवसि ।
शिष्य उवाच -
         भो स्वामिन् ! सत्यम् इन्द्रियाणि जडानीति मम ज्ञानं जातम् ।
         परं मन एवाहम् । स्वस्थे मनसि पश्यामि शृणोमि तदभावे
         न पश्यामि न शृणोमि अत एव मन एवाहम् ।
गुरुरुवाच -
         भो वत्स ! मनः कथं त्वं भवसि ? मे मनः इदानीं
         समाधानतया तिष्ठतीत्यनुभवात् मनसोऽपि भिन्न एव त्वं
         मनस्तव दृश्यम् । मनसस्त्वं दृष्ट्वा मनस्तवाधीनत्वाच्चात
         एव मनो न भवसि । प्राणे पश्यामि शृणोमि प्राणाभावे न पश्यामि
         न शृणोमि अत एव ।
शिष्य उवाच -
         भो स्वामिन् ! सत्यं मनो न भवामि बुद्ध्या निश्चितेऽर्थे मनो
         धावति । अत एव बुद्धिरेवाहम् ।  साप्यन्तःकरणवृत्तित्वात् ।
         अत एव प्राण एव अहमस्मि ।
गुरुरुवाच -
         भो वत्स ! प्राणस्त्वं न भवसि जडत्वात् ।
शिष्यः -
         भो स्वामिन् ! प्राणो जडः कथम् ?
गुरुः -
         शृणु रात्रौ प्रसुप्तस्य पुरुषस्य वस्तूनि चोरो गृहीत्वा
         गच्छति तदानीं प्राणस्तिष्ठत्येव ।  कथं नावबुध्यते ।
         अत एव जडः ।
शिष्यः -
         भो स्वामिन् ! प्राणो जडश्चेत् जडशरीरं कथं चेष्टयति
         जडस्य चेतनायोगात् ।
गुरुः -
         शृणु जडस्यापि जडचालकत्वं लोके दृष्टमस्ति यथा
         चण्डमारुतः गृहोपरिस्थिततृणादीन् नभसि भ्रामयित्वान्यत्र
         पातयति । किन्तावता वायुश्चैतन्यं भवति वा । एवं
         प्राणस्यापि देहचेष्टकत्वम् । अत एव प्राणोऽपि त्वं न भवसि ।
शिष्यः -
         भो स्वामिन् ! त्वदाज्ञया एतत्सर्वमहं न भवामि ।
         तावता मम को लाभः ?
गुरुः-
         अरे शिष्य ! सावधानतया शृणु । एतत् सर्वं सप्तदशकं
         लिङ्गशरीरं त्वं यदा न भवसि ।  तदानीं
         देवतिर्यङ्मनुष्यादिजन्मादिकं नास्ति । यथा जानु भग्नपङ्गोरिव
         गमनागमनं तव नास्त्येव ।
शिष्यः -
         भो स्वामिन् ! त्वत्प्रसादादेव  सत्यं परं च प्राणमनो बुद्धि
         दशेन्द्रिय समन्वितम् ।  अपञ्चीकृत भूतोत्थं सूक्ष्माङ्गं
         भोगसाधनम् ।  भो स्वामिन् ! एतत्सर्वं अहं न भवामि तर्हि
         कोऽहमिति मामहं न जानामि । कृपया स्वामिना वक्तव्यम् ।
गुरुः -
         भो शिष्य ! इदमेव तव कारणशरीरं कथम् ?
         भो शिष्य अरे सर्वं जानासि स्वात्मानमेव न जानामीति वदसि ।
         इदमेव तवाज्ञानं सर्वेषां स्थूलसूक्ष्म शरीराणां कारणत्वात्
         कारणमित्याभिधीयते ।  इयमेवाविद्या संसारानर्थदायिनी ।
   `` आब्रह्म ज्ञानैक निलया अस्या निवृत्तिरेव मुक्तिः ।
   मुमुक्षिभिः प्रयत्नैः परिहर्तव्या । ''
शिष्यः -
        भो स्वामिन् ! कथं परिहर्तव्या ?
गुरुः -
        अरे शिष्य ! त्वमेव माऽहं न जानामीति वदसि । तर्हि त्वत्तोऽन्यः
        कोऽपि वदति वा ?  वक्ता श्रोता द्रष्टा त्वमेव ।
शिष्यः -
        अस्मिन्नर्थे श्रुतिः प्रमाणं वर्तते वा ?
गुरुः -
        अरे वत्स ! सर्वेषां वेदान्तानां अत्रैव श्रुतिवाक्यं प्रमाणम् ।
        `` नान्यतोऽस्मि वक्ता नान्यतोऽस्मि श्रोता नान्यतोऽस्मि मन्ता
        नान्यतोऽस्मि द्रष्टा चेति ''
        येन वा पश्यति येन वा शृणोतीत्यादि प्रमाणानि बहूनि सन्ति ।
        त्रिषु धामसु यत् भोज्यं भोक्ता भोगश्च यत् भवेत् ।
        तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥

    स्मृतिरपि - क्षेत्रज्ञं चापि मां विद्धि सर्वभूतस्तमात्मानमिति ।
    पुराणं च -
         सकल इदमहं च वासुदेवः परमः पुमान् परमेश्वरः स एकः ।
         इति मतिरमला भवत्यन्ते हृदयगते व्रज तां विहाय दूरात् ।
         एवं विज्ञानेन स्वात्मरामः सन् यस्तिष्ठति स ब्रह्म स शिवः
         स हरिः सेन्द्रः सोऽक्षरः परमस्वराट् ।  ज्योतींषि विष्णुः
         भुवनानि विष्णुः वनानि विष्णुः गिरयो दिशश्च ।
         नद्यः समुद्राश्च स एव सर्वम् । इदं त्वं नास्ति विप्रवर्य ।
         एतादृशेनानुभवेन शिष्ययुक्तः सन् स्वानुभवस्थितिं दर्शयति ।
         न हि बन्धपदं न हि मोक्षपदं न हि पापपदं न हि पदम् ।
         न हि रिक्तपदं न हि पूर्णपदं किं रोदिषि मानस सर्वसमम् ।
         अहो अहं नमो मह्यं दक्षो नास्तीति मत्समः ।
         असंस्पर्शशरीरेण येन विश्वं चिरं धृतम् ।
         मयि सुखबोधपयोधौ महति ब्रह्माण्ड बुदबुदसहस्रम् ।
         मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ।
         हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् ।
         हरिरहमस्मि हरोऽहं विधिरप्यहमस्मि कारणं तेषाम् ।
         धर्माधर्ममयोऽहं धर्माधर्मादिबन्धरहितोऽहम् ।
         धार्मिकजनसुलभोऽहं धन्योऽस्मि धातुरादिभूतोऽहम् ॥

         मन्योऽहमस्मि महतां मन्दमतीनां माननीयोऽहम् ।
         मद मान राग मोहित मानस दुर्वासना दुरापोऽहम् ।
         नाहं नमामि देवान् एते नमस्यन्ति च नित्यं माम् ।
         मत्तः परतरो नास्ति चिन्मात्रोऽहं सदाशिवः ।
         किमिदं किमस्य रूपं कथमिदमुदभूदमुष्य को हेतुः ।
         इति न कदापि चिन्त्यम् ।
         चिन्त्यं मायेति धीमता विश्वम् ।
         गुरुणैव नावा प्राक्तनभाग्यानुकूलमारुतेन ॥

         दुस्सहदुःखतरङ्गोत्तुङ्ग संसार सागरोत्तीर्णः ।
         शरणं न हि मम जननी सुतो न सोदरश्चान्ये ॥

         परमं शरणं इदं मे चरणं मम मूर्ध्नि देशिकन्यस्तम् ।
         आस्ते देशिकचरणं निरवधिरास्ते मदीक्षणे करुणा ॥

         आस्ते किमपि तदुक्तं किमितःपरमस्मि जन्मसाफल्यम् ॥

         इदं ज्ञानं परं श्रेष्ठं सतां संमतमादरात् ।
         यः शृणोति च मेधावी स मुक्तो नात्र संशयः ।
॥ इति श्रीपरमहंसपरिव्राजकाचार्य
श्रीमत् शङ्कराचार्यविरचितबालबोधसङ्ग्रहः समाप्तः ।

No comments: