Monday, June 18, 2018

ശ്രീശങ്കരഭഗവത്പാദസ്തുതിഃ

श्रीशङ्करभगवत्पादस्तुतिः 

अष्टवर्षे चतुर्वेदी द्वादशेखिलशास्त्रवित् ।
सर्वलोकख्यातशीलः प्रस्थानत्रयभाष्यकृत् ॥ १॥

पद्मपादादिसच्छिष्यः पाखण्डध्वान्तभास्करः ।
अद्वैतस्थापनाचार्यः द्वैतमत्तेभकेसरी ॥ २॥

व्यासनन्दितसिद्धान्तः वादनिर्जितमण्डनः ।
षण्मतस्थापनाचार्यः षड्गुणैश्वर्यमण्डितः ॥ ३॥

सर्वलोकानुग्रहकृत् सर्वज्ञत्वादिभूषणः ।
श्रुतिस्मृतिपुराणज्ञः श्रुत्येकशरणप्रियः ॥ ४॥

सकृत्स्मरणसन्तुष्टः शरणागतवत्सलः ।
निर्व्याजकरुणामूर्तिः निरहंभावगोचरः ॥ ५॥

संशान्तभक्तहृत्तापः सामरस्यफलप्रदः ।
संन्यासकुलपद्मार्कः संविन्मयकलेवरः ॥ ६॥

साक्षाच्छ्रीदक्षिणामूर्तिः शङ्कराख्यो जगद्गुरुः ।
सन्तनोतु दृढां निष्ठां अद्वैताऽध्वनि नः सदा ॥ ७॥

इति श्री ईश्वरानन्दगिरिमहाराजकृता श्रीशङ्करभगवत्पादस्तुतिः समाप्ता ॥

No comments: