Wednesday, December 26, 2018

नववाणी

विज्ञानस्य भाषा भवति संस्कृतम्। अस्यां भाषायां लोकोत्तरं साहित्यं व्याकरणं खगोलशास्त्रम् इतरविज्ञानानि च सन्ति, तनि विश्वस्य महाधनभूतानि सन्ति। आधुनिकमाध्यमद्वारा प्रजातन्त्रपरां रीतिमवलम्ब्य अस्याः विज्ञानवाण्याः आदानप्रदानं, तद्वारा संस्कृतपठनस्य कार्यक्षमता च आस्माकं लक्ष्यम् भवतिॆ।तदर्थमेवायमभियानः। केरलेषु प्रप्रथमम् इरिङ्ङालक्कुटा शिक्षामण्डले संस्कृत- अक्कादमिक- समितिः १०-०२-२०१० तमे वर्षे नववाणीनामकस्य संस्कृतजालपुटस्य आरम्भमकरोत्। केरलस्य शिक्षाक्षेत्रेषु संस्कृतपठनपाठनरीतीः आधुनिकीकर्तुं नववाणयाः अनिषेध्यं योगदानमस्ति। एतावत्पर्यन्तं सहकृतेभ्यः केरलस्यान्तः बहिश्च वर्तमानेभ्यः संस्कृप्रेमिभ्यः अस्मिन्नवसरे कृतज्ञतां व्याहरामः। अधुना संस्कृतपठनाय एकं मोबैल् आप् अपि वयम् अवतारयामः। वन्दनीयानां गुरूणां सहकार एव अस्मै शुभारम्भाय अस्मान् शक्तान् करोति। सर्वे स्वीकरिष्यन्ति इति प्रतीक्षया …

No comments: