श्रीभगवानुवाच –
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥
पदच्छेदः
कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम् । अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन ॥
अन्वयः
अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?
पदपरिचय:
- सम्बोधनपदम् = अर्जुन!
- प्रथमवाक्यम्
- कर्तृ-विशेषण-सूचक-वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= समुपस्थितम्
- कर्मपदम् = त्वा
- कर्मपदम् = कश्मलम्
- कर्मविशेषणम् = इदम्
- कर्मविशेषणम् = अनार्यजुष्टम्
- कर्मविशेषणम् = अस्वर्ग्यम्
- कर्मविशेषणम् = अकीर्तिकरम्
- अधिकरणपदम् = विषमे
- कर्तृ-विशेषण-सूचक-वाक्यांश:
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥
पदच्छेदः
क्लैब्यम्, मा, स्म, गमः, पार्थ, न, एतत्, त्वयि, उपपद्यते । क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, उत्तिष्ठ , परन्तप ॥
अन्वयः
पार्थ ! क्लैब्यं मा स्म गमः । त्वयि एतत् न उपपद्यते । परन्तप ! क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ ।
पदपरिचय:
- सम्बोधनपदम् = पार्थ!
- प्रथमवाक्यम्
- क्रियापदम् = गमः
- क्रियाविशेषण-सूचक-पदम् = स्म
- क्रियाविशेषणम् = मा
- कर्मपदम् = क्लैब्यम्
- द्वितीयवाक्यम्
- क्रियापदम् = उपपद्यते
- क्रियाविशेषणम् = न
- कर्तृपदम् = एतत्
- अधिकरणपदम् = त्वयि
- सम्बोधनपदम् = परन्तप!
- तृतीयवाक्यम्
- क्रियापदम् = उत्तिष्ठ
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = त्यक्त्वा
- कर्मपदम् = हृदयदौर्बल्यम्
- कर्मविशेषणम् = क्षुद्रम्
- कर्तृपदम् = (त्वम्).
- nivedita2015
No comments:
Post a Comment