Friday, August 24, 2018

Learning Sanskrit vibhakti through sloka-

Learning Sanskrit vibhakti through sloka

श्री रामः  शरणं समस्त जगतां  (रामः - प्रथमा)
रामं विना का गतिः  (रामम् - द्वितीया)
रामेण प्रतिहन्यते कलिमलम्  (रामेण - तृतीया)
रामाय तस्मै  नमः  (रामाय - चतुर्थी)
रामात् त्रस्यति कालभॆमभुजगो (रामात् - पञ्चमी)
रामस्य सर्वं वशे  (रामस्य - षष्टी)
रामे भक्तिरखण्डिता भवतु मे (रामे - सप्तमी)
राम ! त्वमेवाश्रयः  (राम ! - सम्बोधन प्रथमा)

र् + अ + म् + अ = राम (अकारान्तं पुल्लिङ्गं राम शब्दः)

Prof. Dr. V.N.Jha sir taught us to analyse this way:-
श्री रामः  शरणं समस्त जगतां
रामं विना का गतिः
रामेण प्रतिहन्यते कलिमलम्
रामाय तस्मै  नमः
रामात् त्रस्यति कालभॆमभुजगो
रामस्य सर्वं वशे
रामे भक्तिरखण्डिता भवतु मे
राम ! त्वमेवाश्रयः
रामं विना का गतिः (when  "विना" comes use द्वितीया or sometimes तृतीया also used like कार्यं विना  or कार्येण विना ); sometimes पञ्चमी also is used.
रामेण प्रतिहन्यते कलिमलम् (when रामं is हेतु of removing the impurities कलिमलम्, we use रामेण - तृतीया as as उपपद विभक्ति.;
(रामेण कलिमलम् प्रतिहन्यते - Passive Voice or कर्मणि प्रयोग);
रामाय तस्मै नमः - when नमः comes we have to use चतुर्थी  . ( रामाय - चतुर्थी);also the receiver should be in चतुर्थी;
रामात् त्रस्यति कालभॆमभुजगो - when भयार्थक धातु comes then पञ्चमी is used (रामात् );

श्री रामः  शरणं समस्त जगतां  (रामः - प्रथमा)
रामं विना का गतिः  (रामम् - द्वितीया)
रामेण प्रतिहन्यते कलिमलम्  (रामेण - तृतीया)
रामाय तस्मै  नमः  (रामाय - चतुर्थी)
रामात् त्रस्यति कालभॆमभुजगो (रामात् - पञ्चमी)
रामस्य सर्वं वशे  (रामस्य - षष्टी)
रामे भक्तिरखण्डिता भवतु मे (रामे - सप्तमी)
राम ! त्वमेवाश्रयः  (राम ! - सम्बोधन प्रथमा)

also in this sloka. रामो becomes रामः (प्रथमा) - सन्धि 

रामो राजमणिः सदा विजयते 
रामं रमेशं भजे
रामेणाभिहता निशाचरचमूः 
रामाय तस्मै नमः ।
रामान्नास्ति परायणंपरतरं 
रामस्य दासोस्म्यहं
रामे चित्तलयस्सदा भवतु मे 
भो राम ! मामुद्धर ॥

(this sloka is taken from श्रीरामरक्षास्तोत्रम्)
कृष्णो रक्षतु मां चराचरगुरु: 
कृष्णं नमस्याम्यहम् 
कृष्णेनामरशत्रवो विनिहता:
कृष्णाय तस्मै नमः ।
कृष्णादेव सुमुत्थितं जगदिदम् 
कृष्णस्य दासोस्म्यहम् 
कृष्णे भक्तिरचञ्चलास्तु भगवन् 
हे कृष्ण ! तुभ्यं नमः  ॥


क् + ऋ + ष् + ण् + अ = कृष्ण  (अकारान्तं पुल्लिङ्गं कृष्ण शब्दं)

कृष्णो रक्षतु मां चराचरगुरु: (when we do the sandhi, it becomes कृष्ण: - प्रथमा)
कृष्णं नमस्याम्यहम्  (कृष्णं - द्वितीया)
कृष्णेनामरशत्रवो विनिहता: (कृष्णेन - तृतीया)
कृष्णाय तस्मै नमः । (कृष्णाय - चतुर्थी)
कृष्णादेव सुमुत्थितं जगदिदम् (कृष्णात् - पञ्चमी)
कृष्णस्य दासोस्म्यहम्  (कृष्णस्य - षष्टी)
कृष्णे भक्तिरचञ्चलास्तु भगवन् (कृष्णे - सप्तमी)
हे कृष्ण ! तुभ्यं नमः  ॥ (हे कृष्ण ! - सम्बोधन प्रथमा)

गुरुरेव गतिः गुरुमेव भजे   गुरुणैव सहास्मि नमो गुरवे .
न गुरोः परमम् शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो ! 

गुरुरेव गतिः (गुरुः एव - गुरुः प्रथमा)
गुरुमेव भजे  (गुरुं एव - गुरुं द्वितीया)
गुरुणैव सहास्मि (गुरुणा एव - गुरुणा तृतीया)
नमो गुरवे .(गुरवे - चतुर्थी)
न गुरोः परमम् (गुरोः - पञ्चमी)
शिशुरस्मि गुरोः (गुरोः षष्टी)
मतिरस्ति गुरौ मम (गुरौ - सप्तमी)
पाहि गुरो ! (गुरो! संबोधाना प्रथमा).
VANAJA RAVI NAIR

No comments: