श्रीमद्भगवद्गीता – प्रथमोध्यायः – अर्जुनविषादयोगः
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥
पदच्छेदः
धर्मक्षेत्रे, कुरुक्षेत्रे, समवेताः, युयुत्सवः, मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय
अन्वयः
सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे समेवेताः युयुत्सवः मामकाः पाण्डवाः च एव किम् अकुर्वत ?
पदपरिचय:
- सम्बोधनपदम् = सञ्जय!
- प्रथमवाक्यम्
- क्रियापदम् = अकुर्वत
- प्रश्नवाचक-कर्म-पदम् = किम्
- वाक्यांश:
- कर्तृविशेषणम् = समेवेताः
- अधिकरणपदम् = कुरुक्षेत्रे
- अधिकरण-विशेषणम् = धर्मक्षेत्रे
- कर्तृविशेषणम् = युयुत्सवः
- वाक्यांश:
- कर्तृपदम् = मामकाः
- कर्तृपदम् = पाण्डवाः
- संयोजकपदम् = च
- कर्तृ-विशेषण-सूचक-पदम् = एव
सञ्जय उवाच –
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२॥
पदच्छेदः
सञ्जयः उवाच – दृष्ट्वा, तु, पाण्डवानीकम्, व्यूढम्, दुर्योधनः, तदा, आचार्यम्, उपसङ्गम्य, राजा, वचनम्, अब्रवीत्
अन्वयः
तदा तु व्यू्ढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = अब्रवीत्
- कर्मपदम् = वचनम्
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = उपसङ्गम्य
- कर्मपदम् = आचार्यम्
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = दृष्ट्वा
- कर्मपदम् = पाण्डवानीकम्
- कर्मविशेषणम् = व्यू्ढम्
- कालवाचकपदम् = तदा
- कालवाचक-विशेषण-सूचक-पदम् = तु
- कर्तृपदम् = दुर्योधनः
- कर्तृविशेषणम् = राजा
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
पदच्छेदः
पश्य, एताम्, पाण्डुपुत्राणाम्, आचार्य, महतीम्, चमूम् । व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता ॥
अन्वयः
आचार्य ! तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।
पदपरिचय:
- सम्बोधनपदम् = आचार्य!
- प्रथमवाक्यम्
- क्रियापदम् = पश्य
- वाक्यांश:
- कर्मपदम् = चमूम्
- कर्मविशेषणम् = एताम्
- कर्मविशेषणम् = महतीम्
- सम्बन्ध-पदम् = पाण्डुपुत्राणाम्
- कर्मविशेषण-वाक्यांश:
- क्रिया-गर्भ-कर्मपदम्= व्यूढाम्
- (कर्मणि) कर्तृपदम् = द्रुपदपुत्रेण
- वाक्यांश:
- (कर्मणि) कर्तृविशेषणम् = शिष्येण
- (कर्मणि) कर्तृविशेषणम् = धीमता
- सम्बन्ध-पदम् = तव
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४॥
पदच्छेदः
अत्र, शूराः, महेष्वासाः, भीमार्जुनसमाः, युधि । युयुधानः, विराटः, च, द्रुपदः, च, महारथः ॥४॥
अन्वयः
अत्र महेष्वासाः युधि भीमार्जुनसमाः शूराः युयुधानाः च विराटः च महारथः दृपदः ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = (सन्ति)
- अधिकरणपदम् = अत्र
- कर्तृपदम् = महेष्वासाः
- वाक्यांश:
- कर्तृपदम् = भीमार्जुनसमाः
- अधिकरणपदम् = युधि
- कर्तृपदम् = शूराः
- कर्तृपदम् = युयुधानाः
- कर्तृपदम् = विराटः
- कर्तृपदम् = महारथः
- कर्तृपदम् = दृपदः
- संयोजकपदम् = च
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५॥
पदच्छेदः
धृष्टकेतुः, चेकितानः, काशिराजः, च, वीर्यवान् । पुरुजित्, कुन्तिभोजः, च, शैब्यः, च, नरपुङ्गवः ॥ ५ ॥
अन्वयः
च धृष्टकेतुः चेकितानः च वीर्यवान् काशिराजः पुरुजित् कुन्तिभोजः च नरपुङ्गवः शैब्यः….. ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = (सन्ति)
- कर्तृपदम् = धृष्टकेतुः
- कर्तृपदम् = चेकितानः
- वाक्यांश:
- कर्तृपदम् = काशिराजः
- कर्तृविशेषणम् = काशिराजः
- कर्तृपदम् = पुरुजित्
- कर्तृपदम् = कुन्तिभोजः
- वाक्यांश:
- कर्तृपदम् = शैब्यः
- कर्तृविशेषणम् = नरपुङ्गवः
- संयोजकपदम् = च
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
पदच्छेदः
युधामन्युः, च, विक्रान्तः, उत्तमौजाः, च, वीर्यवान् । सौभद्रः, द्रौपदेयाः, च, सर्वे, एव, महारथाः ॥६॥
अन्वयः
च विक्रान्तः युधामन्युः च वीर्यवान् उत्तमौजाः सौभद्रः च द्रौपदेयाः सर्वे एव महारथाः ।
पदपरिचय:
- प्रथमवाक्यम्
- क्यांश:
- कर्तृपदम् = युधामन्युः
- कर्तृविशेषणम् = विक्रान्तः
- वाक्यांश:
- कर्तृपदम् = उत्तमौजाः
- कर्तृविशेषणम् = वीर्यवान्
- कर्तृपदम् = सौभद्रः
- कर्तृपदम् = द्रौपदेयाः
- कर्तृ-विशेषण-वाक्यांश:
- कर्तृपदम् = महारथाः
- कर्तृविशेषणम् = सर्वे
- कर्तृ-विशेषण-सूचक-पदम् = एव
- क्यांश:
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥
पदच्छेदः
अस्माकम्, तु, विशिष्टाः, ये, तान्, निबोध, द्विजोत्तम । नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥ ७ ॥
अन्वयः
द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि ।
पदपरिचय:
- सम्बोधनपदम् = द्विजोत्तम!
- प्रथमवाक्यम्
- “ये” वाक्यांश:
- क्रियापदम् = (सन्ति)
- कर्तृविशेषणम् = विशिष्टाः
- वाक्यांश:
- कर्तृपदम् = ये
- सम्बन्ध-पदम् = अस्माकम्
- सम्बन्ध-विशेषण-पदम् = तु
- “तान्” वाक्यांश:
- क्रियापदम् = निबोध
- कर्मपदम् = तान्
- कर्तृपदम् = (त्वम्)
- द्वितीयवाक्यम्
- “(ये)” वाक्यांश:
- क्रियापदम् = (सन्ति)
- कर्तृ-विशेषण-सूचक-पदम् = नायकाः
- कर्तृपदम् = (ये)
- “तान्” वाक्यांश:
- क्रियापदम् = ब्रवीमि
- क्रियाविशेषणम् = संज्ञार्थम्
- सम्प्रदानपदम् = ते
- कर्मपदम् = तान्
- कर्तृपदम् = (अहम्)
- “(ये)” वाक्यांश:
- “ये” वाक्यांश:
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥
पदच्छेदः
भवान्, भीष्मः, च, कर्णः, च, कृपः, च, समितिञ्जयः । अश्वत्थामा, विकर्णः, च, सौमदत्तिः, तथा, एव, च ॥८॥
अन्वयः
भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथा एव सौमदत्तिः (सन्ति) ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = (सन्ति)
- कर्तृपदम् = भवान्
- कर्तृपदम् = भीष्मः
- कर्तृपदम् = कर्णः
- कर्तृपदम् = समितिञ्जयः
- कर्तृपदम् = कृपः
- कर्तृपदम् = अश्वत्थामा
- कर्तृपदम् = विकर्णः
- वाक्यांश:
- क्रियाविशेषणम् = तथा
- क्रियाविशेषण-सूचक-पदम् = एव
- कर्तृपदम् = सौमदत्तिः
- संयोजकपदम् = च
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
पदच्छेदः
अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीविताः । नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥९॥
अन्वयः
नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = (सन्ति)
- कर्तृ-विशेषण-सूचक-वाक्यांश:
- कर्तृपदम् = त्यक्तजीविताः
- कर्तृविशेषणम् = बहवः
- कर्तृविशेषणम् = अन्ये
- संयोजकपदम् = च
- कारण-सूचक-अधिकरणपदम् = मदर्थे
- कर्तृविशेषणम् = नानाशस्त्रप्रहरणाः
- कर्तृविशेषणम् = शूराः
- कर्तृपदम् = सर्वे
- कर्तृविशेषणम् = युद्धविशारदाः
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
पदच्छेदः
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥
अन्वयः
अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम् । इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति) ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृ-विशेषण-सूचक-पदम् = अपर्याप्तम्
- कर्तृपदम् = बलम्
- कर्तृविशेषणम् = तद्
- कर्तृविशेषणम् = भीष्माभिरक्षितम्
- सम्बन्ध-पदम् = अस्माकम्
- द्वितीयवाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृ-विशेषण-सूचक-पदम् = पर्याप्तम्
- कर्तृपदम् = बलम्
- कर्तृविशेषणम् = भीमाभिरक्षितम्
- सम्बन्ध-पदम् = एतेषाम्
- कर्तृविशेषणम् = इदम्
- कर्तृ-विशेषण-सूचक-पदम् = तु
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
पदच्छेदः
अन्वयः
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = अभिरक्षन्तु
- कर्मपदम् = भीष्मम्
- कर्मविशेषण-सूचक-पदम् = एव
- कर्तृपदम् = सर्वे
- कर्तृविशेषणम् = भवन्तः
- वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= अवस्थिताः
- क्रियाविशेषणम् = यथाभागम्
- अधिकरणपदम् = अयनेषु
- अधिकरण-विशेषणम् = सर्वेषु
तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
पदच्छेदः
तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः । सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान् ॥
अन्वयः
प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = दध्मौ
- क्रियाविशेषणम् = उच्चैः
- कर्मपदम् = शङ्खम्
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = विनद्य
- कर्मपदम् = सिंहनादम्
- कर्तृपदम् = पितामहः
- कर्तृ-विशेषण-वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= सञ्जनयन्
- कर्मपदम् = हर्षम्
- सम्बन्ध-पदम् = तस्य
- कर्तृविशेषणम् = कुरुवृद्धः
- कर्तृविशेषणम् = प्रतापवान्
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
पदच्छेदः
ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः । सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमुलः, अभवत् ॥
अन्वयः
ततः शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = अभ्यहन्यन्त
- क्रियाविशेषणम् = सहसा
- क्रियाविशेषण-सूचक-पदम् = एव
- कर्तृपदम् = शङ्खाः
- कर्तृपदम् = भेर्यः
- कर्तृपदम् = पणवानकगोमुखाः
- संयोजकपदम् = च
- द्वितीयवाक्यम्
- क्रियापदम् = अभवत्
- कर्तृ-विशेषण-सूचक-पदम् = तुमुलः
- कर्तृपदम् = शब्दः
- कर्तृविशेषणम् = सः
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
पदच्छेदः
ततः, श्वेतैः, हयैः, युक्ते, महति, स्यन्दने, स्थितौ । माधवः, पाण्डवः, च, एव, दिव्यौ, शङ्खौ, प्रदध्मतुः ॥
अन्वयः
ततः माधवः पाण्डवशः च श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = प्रदध्मतुः
- कर्तृपदम् = शङ्खौ
- कर्तृविशेषणम् = दिव्यौ
- कर्तृ-विशेषण-वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= स्थितौ
- अधिकरणपदम् = स्यन्दने
- अधिकरण-विशेषणम् = महति
- वाक्यांश:
- क्रिया-गर्भ-अधिकरण-विशेषणम् = युक्ते
- (कर्मणि) कर्तृपदम् = हयैः
- (कर्मणि) कर्तृविशेषणम् = श्वेतैः
- कर्तृपदम् = माधवः
- कर्तृपदम् = पाण्डवशः
- संयोजकपदम् = च
- संयोजकपदम् = ततः
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥
पदच्छेदः
पाञ्चजन्यम्, हृषीकेशः, देवदत्तम्, धनञ्जयः । पौण्ड्रम्, दध्मौ, महाशङ्खम्, भीमकर्मा, वृकोदरः ॥
अनन्तविजयम्, राजा, कुन्तीपुत्रः, युधिष्ठिरः । नकुलः, सहदेवः, च, सुघोषमणिपुष्पकौ ॥
अन्वयः
हृषीकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं नकुलः सहदेवः च सुघोषमणिपुष्पकौ दध्मौ ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = दध्मौ
- वाक्यांश:
- कर्तृपदम् = हृषीकेशः
- कर्मपदम् = पाञ्चजन्यम्
- वाक्यांश:
- कर्तृपदम् = धनञ्जयः
- कर्मपदम् = देवदत्तम्
- वाक्यांश:
- कर्तृपदम् = वृकोदरः
- कर्तृविशेषणम् = भीमकर्मा
- कर्मपदम् = पौण्ड्रम्
- कर्मविशेषणम् = महाशङ्खम्
- वाक्यांश:
- कर्तृपदम् = युधिष्ठिरः
- कर्तृविशेषणम् = राजा
- कर्तृविशेषणम् = कुन्तीपुत्रः
- कर्मपदम् = अनन्तविजयम्
- वाक्यांश:
- कर्तृपदम् = नकुलः
- कर्तृपदम् = सहदेवः
- संयोजकपदम् = च
- कर्मपदम् = सुघोषमणिपुष्पकौ
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥
पदच्छेदः
काश्यः, च, परमेष्वासः, शिखण्डी, च, महारथः । धृष्टद्युम्नः, विराटः, च, सात्यकिः, च, अपराजितः ॥ द्रुपदः, द्रौपदेयाः, च, सर्वशः पृथिवीपते । सौभद्रः, च, महाबाहुः, शङ्खान्, दध्मुः, पृथक्, पृथक् ॥
अन्वयः
पृथिवीपते ! परमेष्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः ।
पदपरिचय:
- सम्बोधनपदम् = पृथिवीपते!
- प्रथमवाक्यम्
- क्रियापदम् = दध्मुः
- क्रियाविशेषणम् = सर्वशः
- वाक्यांश:
- कर्मपदम् = शङ्खान्
- कर्मविशेषण-सूचक-पदम् = पृथक्
- वाक्यांश:
- कर्तृपदम् = काश्यः,
- कर्तृविशेषणम् = परमेष्वासः
- वाक्यांश:
- कर्तृपदम् = शिखण्डी,
- कर्तृविशेषणम् = महारथः
- कर्तृपदम् = धृष्टद्युम्नः,
- कर्तृपदम् = विराटः,
- वाक्यांश:
- कर्तृपदम् = सात्यकिः,
- कर्तृविशेषणम् = अपराजितः
- कर्तृपदम् = द्रुपदः,
- कर्तृपदम् = द्रौपदेयाः,
- वाक्यांश:
- कर्तृपदम् = सौभद्रः
- कर्तृपदम् = महाबाहुः
- संयोजकपदम् = च
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥
पदच्छेदः
सः, घोषः, धार्तराष्ट्राणाम्, हृदयानि, व्यदारयत् । नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन् ॥
अन्वयः
सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = व्यदारयत्
- वाक्यांश:
- कर्मपदम् = हृदयानि
- सम्बन्ध-पदम् = धार्तराष्ट्राणाम्
- कर्तृपदम् = घोषः
- कर्तृविशेषणम् = सः
- कर्तृविशेषणम् = तुमुलः
- कर्तृ-विशेषण-सूचक-वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= व्यनुनादयन्
- कर्मपदम् = नभः
- कर्मपदम् = पृथिवीम्
- संयोजकपदम् = च
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
हृषीकेशं तदा वाक्यम् इदमाह महीपते ।
पदच्छेदः
अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः । प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः ॥ हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते ।
अन्वयः
महीपते ! अथ व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिध्वजः पाण्डवः शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह ।
पदपरिचय:
- सम्बोधनपदम् = महीपते!
- प्रथमवाक्यम्
- क्रियापदम् = आह
- कर्मपदम् = वाक्यम्
- कर्मविशेषणम् = इदम्
- सम्प्रदान-सूचक-कर्मपदम् = हृषीकेशम्
- कालवाचक-वाक्यांश: तदा
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = उद्यम्य
- कर्मपदम् = धनुः
- कालवाचक-वाक्यांश:
- क्रिया-आश्रय-कर्तृपदम् = प्रवृत्ते
- ज्ञापक-क्रियापदम् = शस्त्रसम्पाते
- सतिसप्तमि-पदम् = (सति)
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = दृष्ट्वा
- कर्मपदम् = धार्तराष्ट्रान्
- कर्मपदम् = व्यवस्थितान्
- कालवाचकपदम् = अथ
- कर्तृपदम् = पाण्डवः
- कर्तृविशेषणम् = कपिध्वजः
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
पदच्छेदः
सेनयोः, उभयोः, मध्ये, रथम्, स्थापय, मे, अच्युत ॥
अन्वयः
अच्युत ! सेनयोः उभयोः मध्ये मे रथं स्थापय ।
पदपरिचय:
- सम्बोधनपदम् = अच्युत!
- प्रथमवाक्यम्
- क्रियापदम् = स्थापय
- वाक्यांश:
- कर्मपदम् = रथम्
- सम्बन्ध-पदम् = मे
- वाक्यांश:
- अधिकरणपदम् = मध्ये
- सम्बन्ध-पदम् = सेनयोः
- सम्बन्ध-विशेषण-पदम् = उभयोः
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥
पदच्छेदः
यावत्, एतान्, निरीक्षे, अहम्, योद्धुकामान्, अवस्थितान् । कैः, मया, सह, योद्धव्यम्, अस्मिन्, रणसमुद्यमे ॥
अन्वयः
यावत् अहम् अस्मिन् रणसमुद्यमे कैः सह मया योद्धव्यम् (इति ज्ञातुम्) अवस्थितान् एतान् योद्धुकामान् निरीक्षे (तावत् रथं स्थापय) ।
पदपरिचय:
- प्रथमवाक्यम्
- “यावत्” वाक्यांश:
- क्रियापदम् = निरीक्षे
- कर्तृपदम् = अहम्
- कर्मपदम् = योद्धुकामान्
- कर्मविशेषणम् = एतान्
- वाक्यांश:
- तुमुनन्तपदम् = (ज्ञातुम्)
- (कर्मणि) क्रिया-गर्भ-कर्मपदम्= योद्धव्यम्
- (कर्मणि) कर्तृपदम् = मया
- करणवाचकपदम् = कैः
- संयोजकपदम् = सह
- अधिकरणपदम् = रणसमुद्यमे
- अधिकरण-विशेषणम् = अस्मिन्
- संयोजकपदम् = (इति)
- संयोजकपदम् = यावत्
- “(तावत्)” वाक्यांश:
- क्रियापदम् = (स्थापय)
- कर्मपदम् = (रथम्)
- कर्तृपदम् = (त्वम्)
- संयोजकपदम् = (तावत्)
- “यावत्” वाक्यांश:
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
पदच्छेदः
योत्स्यमानान्, अवेक्षे, अहम्, ये, एते, अत्र, समागताः । धार्तराष्ट्रस्य, दुर्बुद्धेः, युद्धे, प्रियचिकीर्षवः ॥
अन्वयः
दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षवः ये एते अत्र समागताः (तान्) योत्स्यमानान् अहम् अवेक्षे ।
पदपरिचय:
- प्रथमवाक्यम्
- “ये” वाक्यांश:
- क्रियापदम् = (सन्ति)
- कर्तृपदम् = समागताः
- अधिकरणपदम् = अत्र
- अधिकरण-विशेषणम् = युद्धे
- वाक्यांश:
- कर्तृविशेषणम् = प्रियचिकीर्षवः
- सम्बन्ध-पदम् = धार्तराष्ट्रस्य
- सम्बन्ध-विशेषण-पदम् = दुर्बुद्धेः
- कर्तृविशेषणम् = एते
- कर्तृविशेषणम् = ये
- “(तान्)” वाक्यांश:
- क्रियापदम् = अवेक्षे
- कर्तृपदम् = अहम्
- कर्मपदम् = योत्स्यमानान्
- कर्मविशेषणम् = (तान्)
- “ये” वाक्यांश:
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ २५ ॥
पदच्छेदः
एवम्, उक्तः, हृषीकेशः, गुडाकेशेन, भारत । सेनयोः, उभयोः, मध्ये, स्थापयित्वा, रथोत्तमम् ॥
भीष्मद्रोणप्रमुखतः, सर्वेषाम्, च, महीक्षिताम् । उवाच, पार्थ, पश्य, एतान्, समवेतान्, कुरून्, इति ॥
अन्वयः
भारत ! एवं गुडाकेशेन उक्तः हृषीकेशः सेनयोः उभयोः मध्ये भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षितां (प्रमुखतः) रथोत्तमं स्थापयित्वा पार्थ ! एतान् समवेतान् कुरून् पश्य’ इति उवाच ।
पदपरिचय:
- सम्बोधनपदम् = भारत!
- प्रथमवाक्यम्
- क्रियापदम् = उवाच
- कर्तृपदम् = हृषीकेशः
- कर्तृ-विशेषण-वाक्यांश:
- (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= उक्तः
- क्रियाविशेषणम् = एवम्
- (कर्मणि) कर्तृपदम् = गुडाकेशेन
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = स्थापयित्वा
- कर्मपदम् = रथोत्तमम्
- वाक्यांश:
- अधिकरणपदम् = मध्ये
- सम्बन्ध-पदम् = सेनयोः
- सम्बन्ध-विशेषण-पदम् = उभयोः
- वाक्यांश:
- क्रियाविशेषणम् = भीष्मद्रोणप्रमुखतः
- वाक्यांश:
- क्रियाविशेषणम् = (प्रमुखतः)
- सम्बन्ध-पदम् = महीक्षिताम्
- सम्बन्ध-विशेषण-पदम् = सर्वेषाम्
- संयोजकपदम् = च
- कर्म-वाक्यम्
- सम्बोधनपदम् = पार्थ!
- क्रियापदम् = पश्य
- कर्मपदम् = एतान्
- कर्मविशेषणम् = समवेतान्
- कर्मविशेषणम् = कुरून्
- संयोजकपदम् = इति
तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
पदच्छेदः
तत्र, अपश्यत्, स्थितान्, पार्थः, पितॄन्, अथ, पितामहान् । आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, तथा ॥ श्वशुरान्, सुहृदः, च, एव, सेनयोः, उभयोः, अपि ।
अन्वयः
अथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः च उभयोः अपि सेनयोः अपश्यत् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = अपश्यत्
- वाक्यांश:
- अधिकरणपदम् = सेनयोः
- सम्बन्ध-पदम् = उभयोः
- अवधारणम् = अपि
- वाक्यांश:
- कर्मपदम् = पितॄन्
- कर्मपदम् = पितामहान्
- कर्मपदम् = आचार्यान्
- कर्मपदम् = मातुलान्
- कर्मपदम् = भ्रातॄन्
- कर्मपदम् = पुत्रान्
- कर्मपदम् = पौत्रान्
- कर्मपदम् = सखीन्
- कर्मपदम् = श्वशुरान्
- कर्मपदम् = सुहृदः
- संयोजकपदम् = च
- वाक्यांश:
- कर्मविशेषणम् = स्थितान्
- अधिकरणपदम् = तत्र
- संयोजकपदम् = अथ
- कर्तृपदम् = पार्थः
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥
पदच्छेदः
तान्, समीक्ष्य, सः, कौन्तेयः, सर्वान्, बन्धून्, अवस्थितान् । कृपया, परया, आविष्टः विषीदन्, इदम्, अब्रवीत् ॥
अन्वयः
परया कृपया आविष्टः सः कौन्तेयः तान् सर्वान् अवस्थितान् बन्धून् समीक्ष्य विषीदन् इदम् अब्रवीत् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = अब्रवीत्
- कर्मपदम् = इदम्
- कर्तृपदम् = सः
- कर्तृविशेषणम् = कौन्तेयः
- वाक्यांश:
- कर्तृविशेषणम् = आविष्टः
- करणवाचकपदम् = कृपया
- करणविशेषणम् = परया
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = समीक्ष्य
- कर्मपदम् = बन्धून्
- कर्मविशेषणम् = तान्
- कर्मविशेषणम् = सर्वान्
- कर्मविशेषणम् = अवस्थितान्
- कर्तृविशेषणम् = विषीदन्
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ॥
पदच्छेदः
दृष्ट्वा, इमम्, स्वजनम्, कृष्ण, युयुत्सुम्, समुपस्थितम् । सीदन्ति, मम, गात्राणि, मुखम्, च, परिशुष्यति ॥
अन्वयः
कृष्ण ! युयुत्सुं समुपस्थितम् इमं स्वजनं दृष्ट्वा मम गात्राणि सीदन्ति, मुखं च परिशुष्यति ।
पदपरिचय:
- सम्बोधनपदम् = कृष्ण!
- प्रथमवाक्यम्
- क्रियापदम् = सीदन्ति
- कर्मपदम् = गात्राणि
- सम्बन्ध-पदम् = मम
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = दृष्ट्वा
- कर्मपदम् = स्वजनम्
- कर्मविशेषणम् = इमम्
- कर्मविशेषणम् = समुपस्थितम्
- कर्मविशेषणम् = युयुत्सुम्
- समुच्चय-वाक्यम्
- क्रियापदम् = परिशुष्यति
- कर्तृपदम् = मुखम्
- संयोजकपदम् = च
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥
पदच्छेदः
सीदन्ति, मम, गात्राणि, मुखम्, च, परिशुष्यति । वेपथुः, च, शरीरे, मे, रोमहर्षः, च, जायते ॥
वेपथुः, च, शरीरे, मे, रोमहर्षः, च, जायते ॥ गाण्डीवम्, स्रंसते, हस्तात्, त्वक्, च, एव, परिदह्यते । न, च, शक्नोमि, अवस्थातुम्, भ्रमति, इव, च, मे, मनः ॥
अन्वयः
वेपथुः रोमहर्षः च मे शरीरे जायते । हस्तात् गाण्डीवं स्रंसते । त्वक् च एव परिदह्यते । अवस्थातुं न शक्नोमि । मे मनः भ्रमति इव ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = जायते
- कर्तृपदम् = वेपथुः
- कर्तृपदम् = रोमहर्षः
- संयोजकपदम् = च
- अधिकरणपदम् = शरीरे
- सम्बन्ध-पदम् = मे
- द्वितीयवाक्यम्
- क्रियापदम् = स्रंसते
- कर्तृपदम् = गाण्डीवम्
- अपादानपदम् = हस्तात्
- तृतीयवाक्यम्
- क्रियापदम् = परिदह्यते
- कर्तृपदम् = त्वक्
- अवधारणम् = एव
- संयोजकपदम् = च
- चतुर्थवाक्यम्
- क्रियापदम् = शक्नोमि
- प्रतिषेधपदम् = न
- तुमुनन्तपदम् = अवस्थातुम्
- कर्तृपदम् = (अहम्)
- पञ्चमवाक्यम्
- क्रियापदम् = (अस्ति)
- वाक्यांश:
- क्रियाविशेषणम् = भ्रमति
- संयोजकपदम् = इव
- कर्तृपदम् = मनः
- सम्बन्ध-पदम् = मे
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
पदच्छेदः
निमित्तानि, च, पश्यामि, विपरीतानि, केशव । न, च, श्रेयः, अनुपश्यामि, हत्वा, स्वजनम्, आहवे ॥
अन्वयः
केशव ! विपरीतानि च निमित्तानि पश्यामि । आहवे स्वजनं हत्वा श्रेयः च न अनुपश्यामि ।
पदपरिचय:
- सम्बोधनपदम् = केशव!
- प्रथमवाक्यम्
- क्रियापदम् = पश्यामि
- कर्मपदम् = निमित्तानि
- कर्मविशेषणम् = विपरीतानि
- कर्तृपदम् = (अहम्)
- संयोजकपदम् = च
- द्वितीयवाक्यम्
- क्रियापदम् = अनुपश्यामि
- प्रतिषेधपदम् = न
- कर्मपदम् = श्रेयः
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = हत्वा
- कर्मपदम् = स्वजनम्
- अधिकरणपदम् = आहवे
- संयोजकपदम् = च
किं नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा ॥ ३२ ॥
पदच्छेदः
अन्वयः
पदपरिचय:
- सम्बोधनपदम् = कृष्ण!
- प्रथमवाक्यम्
- क्रियापदम् = काङ्क्षे
- प्रतिषेधपदम् = न
- कर्तृपदम् = (अहम्)
- कर्मपदम् = विजयम्
- कर्मपदम् = राज्यम्
- कर्मपदम् = सुखानि
- संयोजकपदम् = च
- सम्बोधनपदम् = गोविन्द!
- द्वितीयवाक्यम्
- क्रियापदम् = (भवति)
- वाक्यांश:
- प्रश्नवाचक-कर्म-पदम् = किम्
- सम्बन्ध-पदम् = नः
- करणवाचकपदम् = राज्येन
- करणवाचकपदम् = भोगैः
- करणवाचकपदम् = जीवितेन
- संयोजकपदम् = वा
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥
पदच्छेदः
येषाम्, अर्थे, काङ्क्षितम्, नः, राज्यम्, भोगाः, सुखानि, च । ते, इमे, अवस्थिताः, युद्धे, प्राणान्, त्यक्त्वा, धनानि, च ॥
आचार्याः, पितरः, पुत्राः, तथा, एव, च, पितामहाः । मातुलाः, श्वशुराः, पौत्राः, श्यालाः, सम्बन्धिनः, तथा ॥
अन्वयः
येषाम् अर्थे राज्यं भोगाः सुखानि च नः काङ्क्षितं ते इमे आचार्याः पितरः पुत्राः तथा एव पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः ।
पदपरिचय:
- प्रथमवाक्यम्
- “येषाम्” वाक्यांश:
- (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= काङ्क्षितम्
- सम्बन्ध-पदम् = नः
- वाक्यांश:
- कारणवाचकपदम् = अर्थे
- सम्बन्ध-पदम् = येषाम्
- (कर्मणि) कर्मपदम् = राज्यम्
- (कर्मणि) कर्मपदम् = भोगाः
- (कर्मणि) कर्मपदम् = सुखानि
- संयोजकपदम् = च
- “ते” वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= अवस्थिताः
- अधिकरणपदम् = युद्धे
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = त्यक्त्वा
- कर्मपदम् = प्राणान्
- कर्मपदम् = धनानि
- संयोजकपदम् = च
- कर्तृविशेषणम् = ते
- कर्तृविशेषणम् = इमे
- कर्तृपदम् = आचार्याः
- कर्तृपदम् = पितरः
- कर्तृपदम् = पुत्राः
- वाक्यांश:
- कर्तृपदम् = पितामहाः
- अवधारणम् = एव
- संयोजकपदम् = तथा
- कर्तृपदम् = मातुलाः
- कर्तृपदम् = श्वशुराः
- कर्तृपदम् = पौत्राः
- कर्तृपदम् = श्यालाः
- वाक्यांश:
- कर्तृपदम् = सम्बन्धिनः
- संयोजकपदम् = तथा
- “येषाम्” वाक्यांश:
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥
पदच्छेदः
एतान्, न, हन्तुम्, इच्छामि, घ्नतः, अपि, मधुसूदन । अपि, त्रैलोक्यराज्यस्य, हेतोः, किम्,नु, महीकृते ॥
अन्वयः
मधुसूदन ! त्रैलोक्यराज्यस्य हेतोः घ्नतः अपि एतान् हन्तुं न इच्छामि । किं नु महीकृते ?
पदपरिचय:
- सम्बोधनपदम् = मधुसूदन!
- प्रथमवाक्यम्
- क्रियापदम् = इच्छामि
- प्रतिषेधपदम् = न
- तुमुनन्तपदम् = हन्तुम्
- कर्मपदम् = एतान्
- कर्तृपदम् = (अहम्)
- वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= घ्नतः
- अवधारणम् = अपि
- वाक्यांश:
- कारणवाचकपदम् = हेतोः
- सम्बन्ध-पदम् = त्रैलोक्यराज्यस्य
- द्वितीयवाक्यम्
- प्रश्नवाचक-कर्तृपदम् = किम्
- संयोजकपदम् = नु
- कारणवाचकपदम् = महीकृते
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ ३६ ॥
पदच्छेदः
निहत्य, धार्तराष्ट्रान्, नः, का, प्रीतिः, स्यात्, जनार्दन । पापम्, एव, आश्रयेत्, अस्मान्, हत्वा, एतान्, आततायिनः ॥
अन्वयः
जनार्दन ! धार्तराष्ट्रान् निहत्य (स्थितानाम्) नः का प्रीतिः स्यात् ? (प्रत्युत) आततायिनः एतान् हत्वा स्थितान् अस्मान् पापम् एव आश्रयेत् ।
पदपरिचय:
- सम्बोधनपदम् = जनार्दन!
- प्रथमवाक्यम्
- क्रियापदम् = स्यात्
- प्रश्नवाचक-कर्तृपदम् = का
- कर्तृपदम् = प्रीतिः
- सम्बन्ध-पदम् = नः
- वाक्यांश:
- अधिकरण-विशेषणम् = (स्थितानाम्)
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = निहत्य
- कर्मपदम् = धार्तराष्ट्रान्
- द्वितीयवाक्यम्
- क्रियापदम् = आश्रयेत्
- कर्तृपदम् = पापम्
- अवधारणम् = एव
- कर्मपदम् = अस्मान्
- कर्मविशेषणम् = स्थितान्
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = हत्वा
- कर्मपदम् = एतान्
- कर्मविशेषणम् = आततायिनः
- वाक्यांश:
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
पदच्छेदः
तस्मात्, न, अर्हाः, वयम्, हन्तुम्, धार्तराष्ट्रान्, स्वबान्धवान् । स्वजनम्, हि, कथम्, हत्वा, सुखिनः, स्याम, माधव ॥
अन्वयः
माधव ! तस्मात् वयं स्वबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः । स्वजनं हि हत्वा कथं सुखिनः स्याम ?
nivedita2015
No comments:
Post a Comment